|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.164. अध्यायः 164
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण नकुलप्रश्नात्स्वङ्गोत्पत्तिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-164-0x(5843)(71534)
कथान्तरमथासाद्य स्वङ्गयुद्धविशारदः।
नकुलः शरतल्पस्थमिदमाह पितामहाम्॥ 12-164-1(71535)
नकुल उवाच। 12-164-2x(5844)
धनुः प्रहरणं श्रेष्ठमितिवादः पितामह।
मतस्तु मम धर्मज्ञः खङ्ग एव सुसंशितः॥ 12-164-2(71536)
छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च।
खङ्गेन शक्यते योद्धुमात्मानं परिरक्षितुम्॥ 12-164-3(71537)
शरासनधरांश्चैव गदाशक्तिधरांस्तदा।
एकः खङ्गधरो वीरः समर्थः प्रतिबाधितुम्॥ 12-164-4(71538)
अत्र मे संशयश्चैव कौतूहलमतीव च।
किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव॥ 12-164-5(71539)
कथं चोत्पादितः खङ्गः कस्मै चार्थाय केन वा।
पूर्वाचार्यं च खङ्गस्य प्रव्रवीहि पितामह॥ 12-164-6(71540)
वैशम्पायन उवाच। 12-164-7x(5845)
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः।
स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम्॥ 12-164-7(71541)
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्।
शिक्षया चोपपन्नाय द्रोणशिष्याय पृच्छते॥ 12-164-8(71542)
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः।
शरतल्पगतो भीष्मो नकुलाय महात्मने॥ 12-164-9(71543)
भीष्म उवाच। 12-164-10x(5846)
तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि।
प्रबोधितोऽस्मि भवता सानुमानिव पर्वतः॥ 12-164-10(71544)
सलिलैकार्णवं तात पुरा सर्वमभूदिदम्।
अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम्॥ 12-164-11(71545)
तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम्।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः॥ 12-164-12(71546)
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान्।
आकाशममृजच्चोर्ध्वमध्नो भूमिं च नैर्ऋतिम्॥ 12-164-13(71547)
ततः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा।
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान्। 12-164-14(71548)
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः।
जनयामास भगवान्पुत्रानुत्तमतेजसः। 12-164-15(71549)
मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम्।
वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च॥ 12-164-16(71550)
प्रजापतिस्तथा दक्षः कन्याः षष्टिमजीजनात्।
ताश्च ब्रह्मर्पीन्सर्वान्प्रजार्थं प्रतिपेदिरे॥ 12-164-17(71551)
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा।
गन्धर्वाप्सरसश्चैव रक्षासि विविधानि च॥ 12-164-18(71552)
पतत्रिमृगमीनाश्च गावश्चैव महोरगाः।
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः॥ 12-164-19(71553)
उद्भिज्जाः स्वेदजाश्चैव साण्डजाश्च जरायुजाः।
अज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम्॥ 12-164-20(71554)
अतः सर्गमिमं कृत्वा सर्वलोकपितामहः।
अश्वतं वेदपठितं धर्मं च जुजुपे पुनः॥ 12-164-21(71555)
स्मन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः।
---त्या वसवो रुद्राः ससाध्या मरुदश्विनः। 12-164-22(71556)
भृ---त्र्यङ्गिरसः सिद्धाः कश्यपश्च तपोधनाः।
वष्ठगौतमागस्त्यास्तथा नारदपर्वतौ॥ 12-164-23(71557)
क्रयो बालखिल्याश्च प्रभासाः सिकतास्तथा।
घृगाच्या सोमवायव्या वैश्वानरमरीचिपाः॥ 12-164-24(71558)
करूपाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः।
---पप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने॥ 12-164-25(71559)
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्।
धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः॥ 12-164-26(71560)
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः।
शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः॥ 12-164-27(71561)
एते चान्ये च बहवः सगणा दैत्यदानवाः।
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः॥ 12-164-28(71562)
सर्वे तुल्याभिजातीया यथा देवास्तथा वयम्।
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः॥ 12-164-29(71563)
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत।
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः॥ 12-164-30(71564)
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः।
अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः॥ 12-164-31(71565)
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके।
शतयोजनविस्तारे मणिमुक्ताचयाचिते॥ 12-164-32(71566)
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये॥ 12-164-33(71567)
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः।
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम्॥ 12-164-34(71568)
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः।
मरुद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः॥ 12-164-35(71569)
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम्।
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम्॥ 12-164-36(71570)
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्।
अत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम्॥ 12-164-37(71571)
चन्द्रमा विमलं व्योम यथाऽभ्युदिततारकम्।
विदार्याग्निं तथा भूतमुत्थितं श्रूयते तदा॥ 12-164-38(71572)
लोनीत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम्।
प्रांशुमुद्धर्षणं चापि तथैव ह्यमितौजसम्॥ 12-164-39(71573)
अस्मिन्नुत्पद्यमाने च प्रचचास वसुंधरा।
महोर्मिकलिलावर्तश्रुक्षुभे स महोदधिः॥ 12-164-40(71574)
पेतुश्चोत्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः।
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ।
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा॥ 12-164-41(71575)
ततः स तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम्।
महर्षिसुरगन्धर्वानुवाचेदं पितामहः॥ 12-164-42(71576)
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान्।
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्॥ 12-164-43(71577)
ततस्तद्रुपमुत्सृज्य बभौ निस्त्रिंश एव सः।
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः॥ 12-164-44(71578)
ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे।
ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम्॥ 12-164-45(71579)
ततः स भगवान्रुद्रो ब्रह्मर्षिगणपूजितः।
प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह॥ 12-164-46(71580)
चतुर्बाहुः स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन्॥ 12-164-47(71581)
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान्।
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्॥ 12-164-48(71582)
नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत्।
शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले॥ 12-164-49(71583)
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा।
संप्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम्॥ 12-164-50(71584)
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्।
चचार विविधान्मार्गान्दानवान्तचिकीर्षया।
विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया॥ 12-164-51(71585)
तस्य नादं विनदतो महाहासं च मुञ्चतः।
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत॥ 12-164-52(71586)
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया।
निशाम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः॥ 12-164-53(71587)
अश्मभिश्चाम्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः।
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः॥ 12-164-54(71588)
ततस्तु दानवानीकं संप्रणेतृकमप्युत।
खङ्गं दृष्ट्वा बलाधूतं प्रमुमोह चचाल च॥ 12-164-55(71589)
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम्।
तमेकमसुराः सर्वे सहस्रमिति मेनिरे॥ 12-164-56(71590)
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि।
अचरद्वैरिसङ्घेषु दावाग्निरिव कक्षगः॥ 12-164-57(71591)
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः।
उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महाबलाः॥ 12-164-58(71592)
अपरे दानवा भग्नाः खङ्गधारावपीडिताः।
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे॥ 12-164-59(71593)
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा।
अपरे जग्मुराकासमपरेऽम्भः समाविशन्॥ 12-164-60(71594)
तस्मिन्महति संवृत्ते समरे भृशदारुणे।
बभूव भूः प्रतिभया मांसशोणितकर्दमा॥ 12-164-61(71595)
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः।
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः॥ 12-164-62(71596)
`रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा।
रक्तार्द्रवसना श्यामा नारीव मदविह्वला॥' 12-164-63(71597)
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत्।
रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः॥ 12-164-64(71598)
ततो महर्षयः सर्वे सर्वे देवगणास्तथा।
जयेनाद्भुतकल्पेन देवदेवमथास्तुवन्॥ 12-164-65(71599)
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम्।
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे॥ 12-164-66(71600)
विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम्।
महर्षिभ्यो ददौ खङ्गमृषयो वासवाय च॥ 12-164-67(71601)
महेन्द्रो लोकपालेभ्यो लोकपाला तु पुत्रक।
मनवे सूर्यपुत्राय ददुः खङ्गं सुविस्तरम्॥ 12-164-68(71602)
ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः।
असिना धर्मगर्भेण पालयस्व प्रजा इति॥ 12-164-69(71603)
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मार्थकारणात्।
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया॥ 12-164-70(71604)
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा।
व्यङ्गता च शरीरस्य वधो नाल्पस्य करणात्॥ 12-164-71(71605)
असेरेतानि रूपाणि दुर्वारादीनि नि दशेत्।
असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात्॥ 12-164-72(71606)
अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः।
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्॥ 12-164-73(71607)
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः।
आयुश्च तस्माल्लोभे तं नहुषश्च ततो भुवि॥ 12-164-74(71608)
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान्।
आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः॥ 12-164-75(71609)
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम्।
तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्तथा॥ 12-164-76(71610)
ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः।
धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत्॥ 12-164-77(71611)
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः।
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः॥ 12-164-78(71612)
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान्।
हरिणाश्वादसिं लेभे शुनकः शुनकादपि॥ 12-164-79(71613)
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः।
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः॥ 12-164-80(71614)
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि।
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान्॥ 12-164-81(71615)
कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम्।
रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः॥ 12-164-82(71616)
असेरष्टौ हि नामानि रहस्यानि निबोध मे।
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम्॥ 12-164-83(71617)
असिर्विशसनः खङ्गस्तीक्ष्णचर्मा दुरासदः।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च॥ 12-164-84(71618)
अग्र्यः प्रहरणानां च खङ्गो भुवि परिश्रुतः।
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः।
`एतानि चैव नामानि पुराणे निश्चितानि वै॥' 12-164-85(71619)
पृथुस्तूत्पादयामास धनुराद्यमरिंदमः।
तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि।
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता॥ 12-164-86(71620)
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः॥ 12-164-87(71621)
इत्येष प्रथमः कल्पो मया ते कथितः पुनः।
एवमेवासिसर्गोऽयं यथावद्भरतर्षभ॥ 12-164-88(71622)
सर्वथा तमिह श्रुत्वा स्वङ्गस्यागममुत्तमम्।
लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते॥ ॥ 12-164-89(71623)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः॥ 164॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-164-1 कथान्तरं आपद्धर्माणं साङ्गानां समाप्तत्वात् कथाया अवसानं असाद्य प्राप्य॥ 12-164-10 धातुमानिव पर्वत इति झ. पाठः। तत्र धातुमान् गैरिकवान् रुधिरोक्षितत्वादित्यर्थः॥ 12-164-19 प्लवङ्ग श्च महोरगा इति झ. पाठः॥ 12-164-21 धर्मं प्रयुयुजे तत इति झ. पाठः॥ 12-164-25 वानप्रस्था इति झ. पाठः॥ 12-164-32 पद्मानीव तारका यत्र लग्नास्तस्मिन् पद्मतारके। अत्यन्तमुच्छ्रित इत्यर्थः॥ 12-164-35 समिद्भिः परिकीर्णमिति झ. पाठः॥ 12-164-38 विकीर्याग्निमिति झ. पाठः॥ 12-164-51 त्रिकूटं त्रीणि कृटानि कपटानि पार्श्वयोरग्ने च तीक्ष्णधाररूपाणि परविदारकाणि यस्मिंन्॥ 12-164-72 दुर्वागादीनि निर्दिशेदिति ट. ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|